सोपसर्गार्थः आरम्भः। संपूर्वात् ख्या इत्येतस्माद् धातोः कर्मण्युपपदे कप्रत्ययो भवति। अणो ऽपवादः। गां संचष्टे गोसङ्ख्यः।
"गां सञ्चष्टे" इति। वाक्यविशेषेण "चक्षिङः ख्याञ्"
२।४।५४ इति ख्याञादेशस्य ग्रहणम्, न "ख्या प्रकथने" (धा।पा।१०६०) इत्येतस्येति दर्शयति। एतच्च संपूर्वस्य ख्यातेः प्रयोगासम्भवाल्लभ्यते॥
समि ख्यः। "समी"ति पञ्चम्यर्थे सप्तमी। गोसङ्ख्य इति। गाः संचष्ट इति विग्रहः। संपूर्वाच्चक्षिङः ख्याञि रूपम्। "ख्या प्रकथने" इत्यस्य तु संपूर्वस्य प्रयोगाऽभावात्, सार्वधातुकमात्रविषयत्वाच्च नेह सम्बध्यते।